top of page

राज्ञीस्तोत्रम् १ (शीतांशुबालार्ककृशानुनेत्राम्) | rajni stotram 1

राज्ञीस्तोत्रम् 
ॐ शीतांशुबालार्ककृशानुनेत्रां चतुर्भुजामेणत्वगासनस्थाम् ।
शङ्खाब्जशूलासिधरां महेशीं राज्ञीं भजेऽहं तुहिनाद्रिरूपाम् ॥ १॥

स्मृतैवान्तर्गता पुंसां हरन्ती सकलं मलम् ।
जयत्येषा महाराज्ञी भक्तानां क्षेमदायिनी ॥ २॥

त्रिजगन्मोहिनीमीडे मयूरीभूतसद्गुणे ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ३॥

शेषाशेषमुखैर्गुण्ये गुणीगुणगणप्रिये ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ४॥

सुरासुरमुनीन्द्राद्यैर्वन्दनीयपदाम्बुजे ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ५॥

चराचरजगत्सृष्टिस्थितिसंहृतिकारिणि ।
नमोऽस्तु ते महाराज्ञि…
bottom of page